🌺🌺#दिनांक- 31/10/2024- #कार्तिक ,कृष्ण - पक्ष, तिथि - चतुर्दशी #तदोपरि #अमावस्या दिन गुरुवार को दिन में 3: 12 बजे के बाद
#प्रतिसंवत्सरं कुर्यात्कालिकायां महोत्सवम्।
कार्तिके तु विशेषेण अमावस्या निशार्द्धके।
तस्यां सम्पूजयेद्देवीं भोगमोक्षप्रदायिनी ।।
#उभय दिने निशीथव्याप्तौ तत्र प्रदोषे भवेत्तदैव। तथोक्तं कुलसर्वस्वे
#प्रदोषव्यापिनी यत्र महानिशा च सा भवेत् ।
तदैव कालिका पूज्या दक्षिणा मोक्षदायिनी।।
#यदोभयदिने तदा चतुर्दशीयुता ग्राह्या ------
#अर्द्धरात्रे महेशानि अमावस्या यदा भवेत्।
चतुर्दशीयुताग्राह्या चामुण्डा पूजने सदा।। इत्यागमात्।
🌺🌺#दिनांक - 1/11/2024- #कार्तिक,कृष्ण- पक्ष, तिथि - अमावस्या #तदोपरि प्रतिपदा ,दिन - शुक्रवार को-- #स्वातीनक्षत्र के योग में #दीपावली
#निर्णयामृते - #ज्योतिषर्निबन्धे--- नारदोऽपि---
#इषासितचततुर्दश्यामिन्दुक्षयतिथावति।
ऊर्जादौ स्वातिसंयुक्ते तदा दीपावली भवेत्।।
#निर्णयामृते - मात्स्ये (#मत्स्य पुराण) --- #दीपैर्नीराजनादत्र सैषा दीपावली स्मृता।
#अत्र विशेषो हेमाद्रौ भविष्ये (#भविष्य पुराण) --- दिवा तत्र न भोक्तव्यमृते बालातुराज्जनात्। प्रदोषसमये लक्ष्मीं पूजयित्वा तत: क्रमात्।। दीपवृक्षाश्च दातव्या शक्त्या देवगृहेषु च ।।
#प्रदोषसमये दीपदानम् ---- दीपान्दत्त्वा प्रदोषे तु लक्ष्मीं पूज्य यथाविधि । स्वलंकृतेन भोक्तव्यं सितवस्त्रोपशोभिता।।
#अयं प्रदोषव्यापिनी ग्राह्य:।
#धर्मसिंधसारे द्वितीयपरिच्छेदे --- अथामावास्याभ्यंगनिर्णय:
#अथाश्विनामावास्यायां प्रातरभ्यंग: प्रदोषे दीपदानलक्ष्मीपूजनादि विहितम्।
#तथा च परदिने एव दिनद्वयेऽपि वा प्रदोषव्याप्तौ परा।
पूर्वत्रैव प्रदोषव्याप्तौ लक्ष्मीपूजनादौ पूर्वा । #अभ्यंगस्नानादौ परा।
#एवमुभयत्र प्रदोषव्याप्त्यभावेऽपि पुरुषार्थचिंतामणौ तु पूर्वत्रैव व्याप्तिरिति पक्षे परत्र यामत्रयाधिकव्यापिदर्शे दर्शापेक्षया प्रतिपद्वृद्धिसत्त्वे लक्ष्मीपूजादिकमपि परत्रैवेत्युक्तम्।
#एतन्मते उभयत्र प्रदोषाव्याप्तिपक्षेऽपि परत्र दर्शस्य सार्धयामत्रयाधिकव्याप्तित्वात्परैव युक्तेति भांति।
🪔🌺#चतुर्दश्यादिदिनत्रयेऽपि दीपावलिसंज्ञके यत्रयत्राह्नि स्वातीनक्षत्रयोगस्तस्यतस्यप्राशस्त्यातिशय:।
🪔🌺#अस्यामेव निशीथोत्तरं नगरस्त्रीभि: स्वगृहांगणादलक्ष्मीनि: सरणं कार्यम्
No comments:
Post a Comment