श्रीजगद्धात्रीस्तोत्रम्
आधाररूपे चाधेये धृतिरूपे धुरन्धरे ।
ध्रुवे ध्रुवपदे धीरे जगद्धात्रि नमोऽस्तु ते ॥ १॥
शिवाकारे शक्तिरूपे शक्तिस्थे शक्तिविग्रहे ।
शक्ताचारप्रिये देवि जगद्धात्रि नमोऽस्तु ते ॥ २॥
जयदे जगदानंदे जगदेकप्रपूजिते ।
जय सर्वगते दुर्गे जगद्धात्रि नमोऽस्तु ते ॥ ३॥
सूक्ष्मातिसूक्ष्मरूपे च प्राणापानादिरूपिणि ।
भावाभावस्वरूपे च जगद्धात्रि नमोऽस्तु ते ॥ ४॥
कालाधिरूपे कालेशे कालाकालविभेदिनि ।
सर्वस्वरूपे सर्वज्ञे जगद्धात्रि नमोऽस्तु ते ॥ ५॥
महाविघ्ने महोत्साहे महामाये वरप्रदे ।
प्रपञ्चसारे साध्वीशे जगद्धात्रि नमोऽस्तु ते ॥ ६॥
आगम्ये जगतामाद्ये माहेश्वरि वराङ्गने ।
अशेषरूपे रूपस्थे जगद्धात्रि नमोऽस्तु ते ॥ ७॥
तीर्थयज्ञ -तपोदान-योगसारे जगन्मयि ।
त्वमेव सर्वं सर्वस्थे जगद्धात्रि नमोऽस्तु ते ॥ ८॥
दयारूपे दयादृष्टे दयार्द्रे दुःखमोचनि ।
सर्वापत्तारिके दुर्गे जगद्धात्रि नमोऽस्तु ते ॥ ९॥
आगम्यधाम-धामस्थे महायोगीश-हृत्पुरे ।
अमेयभावकूटस्थे जगद्धात्रि नमोऽस्तु ते ॥ १०॥
इति श्रीजगद्धात्रीस्तोत्रं सम्पूर्णम् ।
शुभमऽस्तु !
हेमवत्यै नम:। भुवनेश्वर्यै नम:। अह्लादिन्यै नम:।
No comments:
Post a Comment